हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Srimad Bhagavad Gita – श्रीमद्भगवद्गीता contact-sanatanadharm
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

 

Devi Bhagavatam Skanda 12 Chapter 8 – श्रीमद्देवीभागवते द्वादशस्कन्धे अष्टमोऽध्यायः


सहस्राक्षवचः श्रुत्वा गुणगौरवगुम्फितम् ।
साभिमानो जगामाशु यत्र यक्षं विराजते ॥ ३४ ॥

यक्षं दृष्ट्वा ततो वायुं प्रोवाच मृदुभाषया ।
कोऽसि त्वं त्वयि का शक्तिर्वद सर्वं ममाग्रतः ॥ ३५ ॥

ततो यक्षवचः श्रुत्वा गर्वेण मरुदब्रवीत् ।
मातरिश्वाऽहमस्मीति वायुरस्मीति चाब्रवीत् ॥ ३६ ॥

वीर्यं तु मयि सर्वस्य चालने ग्रहणेऽस्ति हि ।
मच्चेष्टया जगत्सर्वं सर्वव्यापारवद्भवेत् ॥ ३७ ॥

इति श्रुत्वा वायुवाणीं निजगाद परं महः ।
तृणमेतत्तवाग्रे यत्तच्चालय यथेप्सितम् ॥ ३८ ॥

नोचेद्गर्वं विहायैनं लज्जितो गच्छ वासवम् ।
श्रुत्वा यक्षवचो वायुः सर्वशक्तिसमन्वितः ॥ ३९ ॥

उद्योगमकरोत्तच्च स्वस्थानान्न चचाल ह ।
लज्जितोऽगाद्देवपार्श्वे हित्वा गर्वं स चानिलः ॥ ४० ॥

वृत्तान्तमवदत्सर्वं गर्वनिर्वापकारणम् ।
नैतज्ज्ञातुं समर्थाः स्म मिथ्यागर्वाभिमानिनः ॥ ४१ ॥

अलौकिकं भाति यक्षं तेजः परमदारुणम् ।
ततः सर्वे सुरगणाः सहस्राक्षं समूचिरे ॥ ४२ ॥

देवराडसि यस्मात्त्वं यक्षं जानीहि तत्त्वतः ।
तत इन्द्रो महागर्वात्तद्यक्षं समुपाद्रवत् ॥ ४३ ॥

प्राद्रवच्च परं तेजो यक्षरूपं परात्परम् ।
अन्तर्धानं ततः प्राप तद्यक्षं वासवाग्रतः ॥ ४४ ॥

अतीव लज्जितो जातो वासवो देवराडपि ।
यक्षसम्भाषणाभावाल्लघुत्वं प्राप चेतसि ॥ ४५ ॥

अतः परं न गन्तव्यं मया तु सुरसंसदि ।
किं मया तत्र वक्तव्यं स्वलघुत्वं सुरान्प्रति ॥ ४६ ॥

देहत्यागो वरस्तस्मान्मानो हि महतां धनम् ।
माने नष्टे जीवितं तु मृततुल्यं न संशयः ॥ ४७ ॥

इति निश्चित्य तत्रैव गर्वं हित्वा सुरेश्वरः ।
चरित्रमीदृशं यस्य तमेव शरणं गतः ॥ ४८ ॥

तस्मिन्नेव क्षणे जाता व्योमवाणी नभस्तले ।
मायाबीजं सहस्राक्ष जप तेन सुखी भव ॥ ४९ ॥

ततो जजाप परमं मायाबीजं परात्परम् ।
लक्षवर्षं निराहारो ध्यानमीलितलोचनः ॥ ५० ॥

अकस्माच्चैत्रमासीयनवम्यां मध्यगे रवौ ।
तदेवाविरभूत्तेजस्तस्मिन्नेव स्थले पुनः ॥ ५१ ॥

तेजोमण्डलमध्ये तु कुमारीं नवयौवनाम् ।
भास्वज्जपाप्रसूनाभां बालकोटिरविप्रभाम् ॥ ५२ ॥

बालशीतांशमुकुटां वस्त्रान्तर्व्यञ्जितस्तनीम् ।
चतुर्भिर्वरहस्तैस्तु वरपाशाङ्कुशाभयान् ॥ ५३ ॥

दधानां रमणीयाङ्गीं कोमलाङ्गलतां शिवाम् ।
भक्तकल्पद्रुमामम्बां नानाभूषणभूषिताम् ॥ ५४ ॥

त्रिनेत्रां मल्लिकामालाकबरीजूटशोभिताम् ।
चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुताम् ॥ ५५ ॥

दन्तच्छटाभिरभितः पद्मरागीकृतक्षमाम् ।
प्रसन्नस्मेरवदनां कोटिकन्दर्पसुन्दराम् ॥ ५६ ॥

रक्ताम्बरपरीधानां रक्तचन्दनचर्चिताम् ।
उमाभिधानां पुरतो देवीं हैमवतीं शिवाम् ॥ ५७ ॥

निर्व्याजकरुणामूर्तिं सर्वकारणकारणाम् ।
ददर्श वासवस्तत्र प्रेमगद्गदितान्तरः ॥ ५८ ॥

प्रेमाश्रुपूर्णनयनो रोमाञ्चिततनुस्ततः ।
दण्डवत् प्रणनामाथ पादयोर्जगदीशितुः ॥ ५९ ॥

तुष्टाव विविधैः स्तोत्रैर्भक्तिसन्नतकन्धरः ।
उवाच परमप्रीतः किमिदं यक्षमित्यपि ॥ ६० ॥

प्रादुर्भूतं च कस्मात्तद्वद सर्वं सुशोभने ।
इति तस्य वचः श्रुत्वा प्रोवाच करुणार्णवा ॥ ६१ ॥

रूपं मदीयं ब्रह्मैतत्सर्वकारणकारणम् ।
मायाधिष्ठानभूतं तु सर्वसाक्षि निरामयम् ॥ ६२ ॥

सर्वे वेदा यत्पदमामनन्ति
तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण ब्रवीमि ॥ ६३ ॥

ओमित्येकाक्षरं ब्रह्म तदेवाहुश्च ह्रींमयम् ।
द्वे बीजे मम मन्त्रौ स्तो मुख्यत्वेन सुरोत्तम ॥ ६४ ॥

भागद्वयवती यस्मात् सृजामि सकलं जगत् ।
तत्रैकभागः सम्प्रोक्तः सच्चिदानन्दनामकः ॥ ६५ ॥

मायाप्रकृतिसञ्ज्ञस्तु द्वितीयो भाग ईरितः ।
सा च माया परा शक्तिः शक्तिमत्यहमीश्वरी ॥ ६६ ॥

चन्द्रस्य चन्द्रिकेवेयं ममाभिन्नत्वमागता ।
साम्यावस्थात्मिका चैषा माया मम सुरोत्तम ॥ ६७ ॥

प्रलये सर्वजगतो मदभिन्नैव तिष्ठति ।
प्राणिकर्मपरीपाकवशतः पुनरेव हि ॥ ६८ ॥

रूपं तदेवमव्यक्तं व्यक्तीभावमुपैति च ।
अन्तर्मुखा तु याऽवस्था सा मायेत्यभिधीयते ॥ ६९ ॥

बहिर्मुखा तु या माया तमःशब्देन सोच्यते ।
बहिर्मुखात्तमोरूपाज्जायते सत्त्वसम्भवः ॥ ७० ॥

रजोगुणस्तदैव स्यात् सर्गादौ सुरसत्तम ।
गुणत्रयात्मकाः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ॥ ७१ ॥

रजोगुणाधिको ब्रह्मा विष्णुः सत्त्वाधिको भवेत् ।
तमोगुणाधिको रुद्रः सर्वकारणरूपधृक् ॥ ७२ ॥

स्थूलदेहो भवेद्ब्रह्मा लिङ्गदेहो हरिः स्मृतः ।
रुद्रस्तु कारणो देहस्तुरीया त्वहमेव हि ॥ ७३ ॥

साम्यावस्था तु या प्रोक्ता सर्वान्तर्यामिरूपिणी ।
अत ऊर्ध्वं परं ब्रह्म मद्रूपं रूपवर्जितम् ॥ ७४ ॥

निर्गुणं सगुणं चेति द्विधा मद्रूपमुच्यते ।
निर्गुणं मायया हीनं सगुणं मायया युतम् ॥ ७५ ॥

साऽहं सर्वं जगत्सृष्ट्वा तदन्तः सम्प्रविश्य च ।
प्रेरयाम्यनिशं जीवं यथाकर्म यथाश्रुतम् ॥ ७६ ॥

सृष्टिस्थितितिरोधाने प्रेरयाम्यहमेव हि ।
ब्रह्माणं च तथा विष्णुं रुद्रं वै कारणात्मकम् ॥ ७७ ॥

मद्भयाद्वाति पवनो भीत्या सूर्यश्च गच्छति ।
इन्द्राग्निमृत्यवस्तद्वत्साऽहं सर्वोत्तमा स्मृता ॥ ७८ ॥

मत्प्रसादाद्भवद्भिस्तु जयो लब्धोऽस्ति सर्वथा ।
युष्मानहं नर्तयामि काष्ठपुत्तलिकोपमान् ॥ ७९ ॥

कदाचिद्देवविजयं दैत्यानां विजयं क्वचित् ।
स्वतन्त्रा स्वेच्छया सर्वं कुर्वे कर्मानुरोधतः ॥ ८० ॥

तां मां सर्वात्मिकां यूयं विस्मृत्य निजगर्वतः ।
अहङ्कारावृतात्मानो मोहमाप्ता दुरन्तकम् ॥ ८१ ॥

अनुग्रहं ततः कर्तुं युष्मद्देहादनुत्तमम् ।
निःसृतं सहसा तेजो मदीयं यक्षमित्यपि ॥ ८२ ॥

अतः परं सर्वभावैर्हित्वा गर्वं तु देहजम् ।
मामेव शरणं यात सच्चिदानन्दरूपिणीम् ॥ ८३ ॥

व्यास उवाच ।
इत्युक्त्या च महादेवी मूलप्रकृतिरीश्वरी ।
अन्तर्धानं गता सद्यो भक्त्या देवैरभिष्टुता ॥ ८४ ॥

ततः सर्वे स्वगर्वं तु विहाय पदपङ्कजम् ।
सम्यगाराधयामासुर्भगवत्याः परात्परम् ॥ ८५ ॥

त्रिसन्ध्यं सर्वदा सर्वे गायत्रीजपतत्पराः ।
यज्ञभागादिभिः सर्वे देवीं नित्यं सिषेविरे ॥ ८६ ॥

एवं सत्ययुगे सर्वे गायत्रीजपतत्पराः ।
तारहृल्लेखयोश्चापि जपे निष्णातमानसाः ॥ ८७ ॥

न विष्णूपासना नित्या वेदे नोक्ता तु कुत्रचित् ।
न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च ॥ ८८ ॥

गायत्र्युपासना नित्या सर्ववेदैः समीरिता ।
यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्वथा ॥ ८९ ॥

तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि ।
गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात् ॥ ९० ॥

कुर्यादन्यन्न वा कुर्यादिति प्राह मनुः स्वयम् ।
विहाय तां तु गायत्रीं विष्णूपास्तिपरायणाः ॥ ९१ ॥

शिवोपास्तिरतो विप्रो नरकं याति सर्वथा ।
तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः ।
देवीपदाम्बुजरता आसन् सर्वे द्विजोत्तमाः ॥ ९२ ॥

इति श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे पराशक्तेराविर्भाववर्णनं नाम अष्टमोऽध्यायः ॥


Sri Lalitha Stotras – श्री ललिता स्तोत्राणि

 Lalitha Stotras – श्री ललिता स्तोत्राणि

 

 

 

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.